Aadi Parva Chapter 1
http://telugubhakti.com/telugupages/Monthly/Mahabharat/content1.htm
नैमिषारण्ये शौनकनाम्ना कुलपतिः सत्रयागं कुर्वन्नासीत्। कश्चित् पौराणिको लोमहर्षणस्य पुत्र उग्रश्रवाः आगतवान्। उग्रश्रवाः तत्र समागतान् ब्रह्मर्षीन् मुनीन् मिलित्वा एवमुक्तवान् - "अहं लोमहर्षणस्य पुत्रो वेदव्यासस्य शिष्यः। पुराणकथानां कथने निपुणोऽस्मि।"
कुलपतिशौनकस् तथा तत्र सत्रयागं निर्वोढुं सम्मिलिता इतरे मुनय ऋषयश्च काञ्चित् पौराणिककथां श्रोतुमिच्छां प्रकटितवन्तः। अत उग्रश्रवा महाभारतस्य कथां श्रावयितुमारब्धवान्।
पुरा कृष्णद्वैपायननाम्ना ब्रह्मर्षिरासीत्। तस्येतरनाम वेदव्यासः। तदा वेदाः सम्पृक्ता आसन्। वेदवयासस् तांश्चतुर्धा विभाजितवान्। ते सन्ति (१) ऋग्वेदः (२) यजुर्वेदः (३) सामवेदः (४) अथर्ववेदः। ब्रह्मदेवस्यानुमतिं लब्ध्वाष्टादशपुराणानि धर्मशास्त्राणीतिहासान् राजानं चरित्राणि भगवतः श्रीकृष्णस्य चरितं पाण्डवानां कौरवाणां च कथाश्च रचयितवान्। पाण्डवानां कौरवाणां च कथानां सम्मेलनमेव महाभारतमस्ति। महाभारतं त्रीन् वर्षान् यावत् पूरितवान्। अष्टादशपर्वाणि महाभारते विद्यन्ते।
Comments
Post a Comment